|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.347. अध्यायः 347
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति नारदाय श्वेतद्वीपस्थहर्युक्तस्वकृतसृष्टिप्रकारानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-347-0x(6581)(79612)
एवं स्तुतः स भगवान् गुह्यैस्तथ्यैश्च नामभिः।
`भगवान्विश्वसृक्सिंहः सर्वमूर्तिमयः प्रभुः।'
दर्शयामास मुनये रूपं तत्परमं हरिः॥ 12-347-1(79613)
किंचिच्चन्द्राद्विशुद्धात्मा किंचिच्चन्द्राद्विशेषवान्।
कृशानुवर्णः किंचिच्च किंचिद्धिष्ण्याकृतिः प्रभुः॥ 12-347-2(79614)
शुकपत्रनिभः किंचित्किंचित्स्फटिकसन्निभः।
नीलाञ्जनचयप्रख्यो जातरूपप्रभः क्वचित्॥ 12-347-3(79615)
प्रबालाङ्कुरवर्णश्च श्वेतवर्णस्तथा क्वचित्।
क्वचित्सुवर्णवर्णाभो वैदूर्यसदृशः क्वचित्॥ 12-347-4(79616)
नीलवैर्दूर्यसदृश इन्द्रनीलनिभः क्वचित्।
मयूरग्रीववर्णाभो मुक्ताहारनिभः क्वचित्॥ 12-347-5(79617)
एतान्बहुधान्वर्णान्रूपैर्बिभ्रत्सनातनः।
सहस्रनयनः श्रीमाञ्छतशीर्षः सहस्रपात्॥ 12-347-6(79618)
सहस्रोदरबाहुश्च अव्यक्त इति च क्वचित्।
ओंकारमुद्गिरन्वक्रात्सावित्रीं च तदन्वयाम्॥ 12-347-7(79619)
शेषेभ्यश्चैव वक्रेभ्यश्चतुर्वेदान्गिरन्बहून्।
आरण्यकं जगौ देवो हरिर्नारायणो वशी॥ 12-347-8(79620)
वेदिं कमण्डलुं दर्भान्मणिरूपांस्तथा कुशान्।
अजिनं दण्डकाष्ठं च ज्वलितं च हुताशनम्।
धारयामास देवेशो हस्तैर्यज्ञपतिस्तदा॥ 12-347-9(79621)
तं प्रसन्नं प्रसन्नात्मा नारदो द्विजसत्तमः।
वाग्यतः प्रणतो भूत्वा ववन्दे परमेश्वरम्॥ 12-347-10(79622)
तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः॥ 12-347-11(79623)
श्रीभगवानुवाच। 12-347-12x(6582)
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः।
इमं देशमनुप्राप्ता मम दर्शनलालसाः॥ 12-347-12(79624)
न च मां ते ददृशिरे न च द्रक्ष्यति कश्चन।
ऋते ह्यैकान्तिकश्रेष्ठात्त्वं चैवैकान्तिकोत्तम॥ 12-347-13(79625)
ममैतास्तनवः श्रेष्ठा जाता धर्मगृहे द्विज।
तास्त्वं भजस्व सततं साधयस्व यथागतम्॥ 12-347-14(79626)
वृणीष्व च वरं प्रिय मत्तस्त्वं यदिहेच्छसि।
प्रसन्नोऽहं तवाद्येह विश्वमूर्तिरिहाव्ययः॥ 12-347-15(79627)
नारद उवाच। 12-347-16x(6583)
अद्य मे तपसो देव यमस्य नियमस्य च।
सद्यः फलमवाप्तं वै दृष्टो यद्भगवान्मया॥ 12-347-16(79628)
वर एष ममात्यन्तं दृष्टस्त्वं यत्सनातनः।
भगवन्विश्वदृक् सिंहः सर्वमूर्तिर्महान्प्रभुः॥ 12-347-17(79629)
भीष्म उवाच। 12-347-18x(6584)
एवं संदर्शयित्वा तु नारदं परमेष्ठिजम्।
उवाच वचनं भूयो गच्छ नारद माचिरम्॥ 12-347-18(79630)
इमे ह्यनिन्द्रियाहारा मद्भक्ताश्चन्द्रवर्चसः।
एकाग्राश्चिन्तयेयुर्मां नैषां विघ्नो भवेदिति॥ 12-347-19(79631)
सिद्धा ह्येते महाभागाः पुरा ह्येकान्तिनोऽभवन्।
तमोरजोभिर्निर्मुक्ता मां प्रवेक्ष्यन्त्यसंशयम्॥ 12-347-20(79632)
न दृश्यश्चक्षुषा योऽसौ न स्पृश्यः स्पर्शनेन च।
न घ्रेयश्चैव गन्धेन रसेन च विवर्जितः॥ 12-347-21(79633)
सत्वं रजस्तमश्चैव न गुणास्तं भजन्ति वै।
यश्च सर्वगतः साक्षी लोकस्यात्मेति कथ्यते॥ 12-347-22(79634)
भूतग्रामशरीरेषु नश्यत्सु न विनश्यति।
अजो नित्यः शाश्वतश्च निर्गुणो निष्कलस्तथा॥ 12-347-23(79635)
द्विर्द्वादशेभ्यस्तत्त्वेभ्यः ख्यातो यः पञ्चविंशकः।
पुरुषो निष्क्रियश्चैव ज्ञानदृश्यश्च कथ्यते॥ 12-347-24(79636)
यं प्रविश्य भवन्तीह मुक्ता वै द्विजसत्तमाः।
स वासुदेवो विज्ञेयः परमात्मा सनातनः॥ 12-347-25(79637)
पश्य देवस्य माहात्म्यं महिमानं च नारद।
शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन॥ 12-347-26(79638)
सत्वं रजस्तमश्चेति गुणानेतान्प्रचक्षते।
एते सर्वशरीरेषु तिष्ठन्ति विचरन्ति च॥ 12-347-27(79639)
एतान्गुणांस्तु क्षेत्रज्ञो भुङ्क्ते नैभिः स भुज्यते।
निर्गुणो गुणभुक्चैव गुणस्रष्टा गुणातिगः॥ 12-347-28(79640)
जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते।
ज्योतिष्यापः प्रलीयन्ते ज्योतिर्वायौ प्रलीयते॥ 12-347-29(79641)
खे वायुः प्रलयं याति मनस्याकाशमेव च।
मनो हि परमं भूतं तदव्यक्ते प्रलीयते॥ 12-347-30(79642)
अव्यक्तं पुरुषे ब्रह्मन्निष्क्रिये संप्रलीयते।
नास्ति तस्मात्परतरः पुरुषाद्वै सनातनात्॥ 12-347-31(79643)
नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम्।
ऋते तमेकं पुरुषं वासुदेवं सनातनम्।
सर्वभूतात्मभूतो हि वासुदेवो महाबलः॥ 12-347-32(79644)
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्।
ते समेता महात्मानः शरीरमिति संज्ञितम्॥ 12-347-33(79645)
तदाविशति यो ब्रह्मन्न दृश्यो लघुविक्रमः।
उत्पन्न एव भवति शरीरं चेष्टयन्प्रभुः॥ 12-347-34(79646)
न विना धातुसंघातं शरीरं भवति क्वचित्।
न च जीवं विना ब्रह्मन्वायवश्चेष्टयन्त्युत॥ 12-347-35(79647)
स जीवः परिसंख्यातः शेषः संकर्षणः प्रभुः।
तस्मात्सनत्कुमारत्वं योऽलभत्स्वेन कर्मणा॥ 12-347-36(79648)
यस्मिंश्च सर्वभूतानि प्रद्युम्नः परिपठ्यते।
तस्मात्प्रसूतो यः कर्ता कारणं कार्यमेव च॥ 12-347-37(79649)
तस्मत्सर्वं संभवति जगत्स्थावरजङ्गमम्।
सोऽनिरुद्धः स ईशानो व्यक्तिः सा सर्वकर्मसु॥ 12-347-38(79650)
यो वासुदेवो भगवान्क्षेत्रज्ञो निर्गुणात्मकः।
ज्ञेयः स एव राजेन्द्र जीवः संकर्षणः प्रभुः॥ 12-347-39(79651)
संकर्षणाच्च प्रद्युम्नो मनोभूतः स उच्यते।
प्रद्युम्नाद्योऽनिरूद्धस्तु सोहंकारः स ईश्वरः॥ 12-347-40(79652)
मत्तः सर्वं संभवति जगत्स्थावरजङ्गमम्।
अक्षरं च क्षरं चैव सच्चासच्चैव नारद॥ 12-347-41(79653)
मां प्रविश्य भवन्तीह मुक्ता भक्तास्तु ये मम।
अहं हि पुरुषो ज्ञेयो निष्क्रियः पञ्चविंशकः॥ 12-347-42(79654)
निर्गुणो निष्कलश्चैव निर्द्वन्द्वो निष्परिग्रहः।
एतत्त्वया न विज्ञेयं रूपवानिति दृश्यते॥ 12-347-43(79655)
इच्छन्मुहूर्तान्नश्येयमीशोऽहं जगतो गुरुः।
माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद॥ 12-347-44(79656)
सर्वभूतगुणैर्युक्तं नैवं त्वं ज्ञातुमर्हसि।
मयैतत्कथितं सम्यक्तव मूर्तिचतुष्टयम्॥ 12-347-45(79657)
अहं हि जीवसंज्ञो वै मयि जीवः समाहितः।
मैवं ते बुद्धिरत्राभूर्द्दृषो जीवो मयेति वै॥ 12-347-46(79658)
अहं सर्वत्रगो ब्रह्मन्भूतग्रामान्तरात्मकः।
भूतग्रामशरीरेषु नश्यत्सु न नशाम्यहम्॥ 12-347-47(79659)
सिद्धा हि ते महाभागा नरा ह्येकान्तिनोऽभवन्।
तमोरजोभ्यां निर्मुक्ताः प्रवेक्ष्यन्ति च मां मुने॥ 12-347-48(79660)
`अहं कर्ता च कार्यं च कारणं चापि नराद।
न दृश्यश्चक्षुषा देवः स्पृश्यो न स्पर्शनेन च।
आघ्रेयो नैव गन्धेन रसेन च विसर्जितः॥ 12-347-49(79661)
सत्वं रजस्तमश्चैव न गुणास्ते भवन्ति हि।
स हि सर्वगतः साक्षी लोकस्यात्मेति कथ्यते॥' 12-347-50(79662)
हिरण्यगर्भो लोकादिश्चतुर्वक्रोऽनिरुक्तगः।
ब्रह्मा सनातनो देवो मम बह्वर्थचिन्तकः॥ 12-347-51(79663)
ललाटाच्चैव मे रुद्रो देवः क्रोधाद्विनिःसृतः।
पश्यैकादश मे रुद्रान्दक्षिणं पार्श्वमास्थितान्॥ 12-347-52(79664)
द्वादशैव तथाऽऽदित्यान्वामपार्श्वे समास्थितान्।
अग्रतश्चैव मे पश्य वसूनष्टौ सुरोत्तमान्॥ 12-347-53(79665)
नासत्यं चैव दस्रं च भिषजौ पश्य पृष्ठतः।
सर्वान्प्रजापतीन्पश्य पश्य सप्तऋर्षीस्तथा॥ 12-347-54(79666)
वेदान्यज्ञांश्च शतशः पश्यामृतमथौषधीः।
तपांसि नियमांश्चैव यमानपि पृथग्विधान्॥ 12-347-55(79667)
तथाऽष्टगुणमैश्वर्यमेकस्थं पश्य मूर्तिमत्।
श्रियं लक्ष्मीं च कीर्तिं च पृथिवीं च ककुद्मिनी॥ 12-347-56(79668)
वेदानां मातरं पश्य मत्स्थां देवीं सरस्वतीम्।
ध्रुवं च ज्योतिषां श्रेष्ठं पश्य नारद खेचरम्॥ 12-347-57(79669)
अम्भोधरान्समुद्रांश्च सरांसि सरितस्तथा।
मूर्तिमन्तः पितृगणांश्चतुरः पश्य सत्तम॥ 12-347-58(79670)
त्रींश्चैवेमान्गुणान्पश्य मत्स्थान्मूर्तिविवर्जितान्।
देवकार्यादपि मुने पितृकार्यं विशिष्यते॥ 12-347-59(79671)
देवानां च पितृणां च पिता ह्येकोऽहमादितः।
अहं हयशिरा भूत्वा समुद्रे पश्चिमोत्तरे॥ 12-347-60(79672)
पिबामि सुहुतं हव्यं कव्यं च श्रद्धयाऽन्वितम्।
मया सृष्टः पुरा ब्रह्मा मां यज्ञमयजत्स्वयम्॥ 12-347-61(79673)
ततस्तस्मै वरान्प्रीतो दत्तवानस्म्यनुत्तमान्।
मत्पुत्रत्वं च कल्पादौ लोकाध्यक्षत्वमेव च॥ 12-347-62(79674)
अहंकारकृतं चैव नामपर्यायवाचकम्।
त्वया कृतां च मर्यादां नातिक्रंस्यति कश्चन॥ 12-347-63(79675)
त्वं चैव वरदो ब्रह्मन्वरेप्सूनां भविष्यसि।
सुरासुरगणानां च ऋषीणां च तपोधन॥ 12-347-64(79676)
पितृणां च महाभाग सततं संशितव्रत।
विविधानां च भूतानां त्वमुपास्यो भविष्यसि॥ 12-347-65(79677)
प्रादुर्भावगतश्चाहं सुरकार्येषु नित्यदा।
अनुशास्यस्त्वया ब्रह्मन्नियोज्यश्च सुतो यथा॥ 12-347-66(79678)
एतांश्चान्यांश्च रुचिरान्ब्रह्मणेऽमिततेजसे।
`एवं रुद्राय मनवे इन्द्रायामिततेजसे।'
अहं दत्त्वा वरान्प्रीतो निवृत्तिपरमोऽभवम्॥ 12-347-67(79679)
निर्वाणं सर्वधर्माणां निवृत्तिः परमा स्मृता।
तस्मान्निवृत्तिमापन्नश्चरेत्सर्वाङ्गनिर्वृतः॥ 12-347-68(79680)
विद्यासहायवन्तं मामादित्यस्थं सनातनम्।
कपिलं प्राहुराचार्याः साङ्ख्यनिश्चितनिश्चयाः॥ 12-347-69(79681)
हिरण्यगर्भो भगवानेष च्छन्दसि संस्तुतः।
सोहं योगगतिर्ब्रह्मन्योगशास्त्रेषु शब्दितः॥ 12-347-70(79682)
एषोऽहं व्यक्तिमाश्रित्य तिष्ठामि दिवि शाश्वतः।
ततो युगसहस्रान्ते संहरिष्ये जगत्पुनः॥ 12-347-71(79683)
कृत्वाऽऽत्मस्थानि भूतानि स्थावराणि चराणि च।
एकाकी विद्यया सार्धं विहरिष्ये जगत्पुनः॥ 12-347-72(79684)
ततो भूयो जगत्सर्वं करिष्यामीह विद्यया।
अस्मिन्मूर्तिश्चतुर्थी या साऽसृजच्छेषमव्ययम्॥ 12-347-73(79685)
स हि संकर्षणः प्रोक्तः प्रद्युम्नः सोप्यजीजनत्।
प्रद्युम्नादनिरुद्धोऽहं सर्गो मम पुनः पुनः॥ 12-347-74(79686)
अनिरुद्धात्तथा ब्रह्मा तन्नाभिकमलोद्भवः।
ब्रह्मणः सर्वभूतानि चराणि स्थावराणि च॥ 12-347-75(79687)
एतां सृष्टिं विजानीहि कल्पादिषु पुनः पुनः।
यथा सूर्यस्य गगनादुदयास्तमने इह।
नष्टे पुनर्वलात्काल आनयत्यमितद्युते॥ ॥ 12-347-76(79688)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये सप्तचत्वारिंशदधिकत्रिशततमोऽध्यायः॥ 347॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-347-1 स्तब्यैश्च नामभिरिति थ. पाठः। तं मुनिं दर्शयामासनारदं विश्वरूपधृदिति झ. ध. पाठः॥ 12-347-7 गायत्रीं च तदन्वयामिति ध. पाठः॥ 12-347-9 वेदिं कमण्डलुं शुभ्रान्मणीनुपानहौ कुशानिति झ. पाठः॥ 12-347-13 ददृशिरे ददृशुः॥ 12-347-19 मद्भक्ताः सूर्यवर्चस इति ध. पाठः॥ 12-347-22 न गुणाः संभवन्ति हीति ध. पाठः॥ 12-347-35 शरीरं चेन्द्रियाणि चेति ध. पाठः॥ 12-347-37 मानसः सर्वभूतानामिति ध. पाठः॥ 12-347-38 व्यक्तः सर्वेषु कर्मस्विति ट. पाठः॥ 12-347-42 मां प्रविश्य भजन्तीहेति ध. पाठः॥ 12-347-53 वसूनष्टौ समाश्रितानिति थ. पाठः॥ 12-347-55 वेदान्यज्ञान्पशूंश्चैव स्रुक्च दर्भमहौषधीरिति थ. पाठः॥ 12-347-57 ब्रह्मण्यं ज्योतिषां श्रेष्ठमिति ध. पाठः॥ 12-347-61 ब्रह्मा मद्यज्ञमयजत्स्वजिति ट. ध. पाठः॥ 12-347-68 तस्मिन्निवृत्तिमापन्ने चरेत्सर्वत्र विष्ठित इति ध. पाठः। चरेत्सर्वत्र निस्स्पृह इति ट. पाठः॥ 12-347-70 हिरण्यगर्भो भगवान्विश्वयोनिः सनातन इति ट. पाठः॥ 12-347-71 तिष्ठाममि भुवि शाश्वत इति थ. पाठः॥ 12-347-75 तत्रादिकमलोद्भवः इति ध. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|